
निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम्। वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ १ ॥ त्रिशूलरत्नधारिणीं धराविघातहारिणीम् । गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ २ ॥ दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम्। वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥ ३ ॥ लसत्सुलोललोचनां लतां सदावरप्रदाम् । कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥
करे मुदा गदाधरां शिवां शिवप्रदायिनीम् । वरावराननां शुभां भजामि विन्ध्यवासिनीम् ॥ ५ ॥ ऋषीन्द्रजामिनप्रदां त्रिधास्यरूपधारिणीम् । जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥ ६ ॥ विशिष्टसृष्टिकारिणीं पुरन्दरादिसेवितां विशालरूपधारिणीम् । महोदरां विशालिनीं भजामि विन्ध्यवासिनीम् ॥ ७॥ मुरादिवंशखण्डिनीम् । विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम्